Posts

Queen Kunti's Prayers

ŚB 1.8.18 कुन्त्युवाच नमस्ये पुरुषं त्वाद्यमीश्वरं प्रकृते: परम् । अलक्ष्यं सर्वभूतानामन्तर्बहिरवस्थितम् ॥ १८  मायाजवनिकाच्छन्नमज्ञाधोक्षजमव्ययम् । न लक्ष्यसे मूढद‍ृशा नटो नाट्यधरो यथा ॥ १९ ॥ तथा परमहंसानां मुनीनाममलात्मनाम् । भक्तियोगविधानार्थं कथं पश्येम हि स्त्रिय: ॥ २० ॥ कृष्णाय वासुदेवाय देवकीनन्दनाय च । नन्दगोपकुमाराय गोविन्दाय नमो नम: ॥ २१ ॥ नम: पङ्कजनाभाय नम: पङ्कजमालिने । नम: पङ्कजनेत्राय नमस्ते पङ्कजाङ्‍घ्रये ॥ २२ ॥ यथा हृषीकेश खलेन देवकी कंसेन रुद्धातिचिरं शुचार्पिता । विमोचिताहं च सहात्मजा विभो त्वयैव नाथेन मुहुर्विपद्गणात् ॥ २३ ॥ विषान्महाग्ने: पुरुषाददर्शना- दसत्सभाया वनवासकृच्छ्रत: । मृधे मृधेऽनेकमहारथास्त्रतो द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिता: ॥ २४ ॥ विपद: सन्तु ता: शश्वत्तत्र तत्र जगद्गुरो । भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम् ॥ २५ ॥ जन्मैश्वर्यश्रुतश्रीभिरेधमानमद: पुमान् । नैवार्हत्यभिधातुं वै त्वामकिञ्चनगोचरम् ॥ २६ ॥ नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये । आत्मारामाय शान्ताय कैवल्यपतये नम: ॥ २७ ॥ मन्ये त्वां कालमीशानमनादिनि